निया का निराला शिव महिम्न स्तोत्र, जिसका नित्य पाठ करने से मुसीबतें रफू चक्कर हो जाती हैं। Amrutam !

!! शंभूतेजसे नमः शिवाय!!
 इस अदभुत और चमत्कारी स्तोत्र की रचना परम शिव भक्त श्री पुष्पदन्त जी की थी। अवधूत, अघोरियों की शक्ति छुपी है इस स्तोत्र में
  • संसार में शैव संप्रदाय के सभी साधु सन्यासी और अघोरियों ने इस स्तोत्र के द्वारा महान सिद्धियां और समृद्धि प्राप्त की।  अमृतम पत्रिका, ग्वालियर मप्र के संपादक अशोक गुप्ता ने इसे कठिन परिश्रम द्वारा वैदिक विधान के अनुसार बिना गलती के स्वयं टाइप किया है। क्योंकि गुगल आदि पर डाले गए स्तोत्र में बहुत गलतियां है, जिससे भारी नुकसान हो सकता है।

पुष्पदन्त उवाच

महिम्नः पारं ते परमविदुषो यद्यसदृशी
स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः!
अथावाच्य: सर्व: स्वमतिपरिणामावधि
गृणन् ममाप्येष स्तोत्रे हर निरपवादः परिकरः!!
अतीतः पन्थानं तव च महिमा वाड्.मनस्यो
रतद्व्यावृत्या यं चकितभभिधत्ते श्रुतिरपि।
सकस्य स्तोतव्यः कतिविधगुणः कस्य विषय:
पदे त्वर्वाचीने पतति न मनः कस्य न वचः!!
मधुस्फीता वाच: परमममृतं निर्मितवत
स्तव ब्रह्मन् किं वागपि सुरगुरोर्विस्मयपदम्।
 मम त्वेतां वाणीं गुणकथनपुण्येन भवतः
पुनामीत्यर्थेऽस्मिन् पुरमथन बुद्धिर्व्यवसिता!!
तवैश्वर्यं यत्तज्जगदुदयरक्षाप्रलयकृत्।
 त्रयीवस्तु व्यस्तं तिसृषु गुणभिन्नासु तनुषु।
अभव्यानामस्मिन् वरद रमणीयमरमणीं
विहन्तुं व्याक्रोशीं विदधंत इहैके जडधियः!!
किमीह: किं काय: स खलु किमुपायस्त्रिभुवनं
किमाधारो धाता सृजति किमुपादान इति च।
अतर्यैश्चर्ये त्वय्यनवसरदु:स्थो हतधियः
कुतर्कोऽयं कांश्चिन्मुखरयति मोहाय जगतः!!
अजन्मानो लोका: किमवयववन्तोऽपि जगता
मधिष्ठातारं किं भवविधिरनादृत्य भवति।
अनीशो वा कुर्यात् भुवनजनने क: परिकरो
यतो मन्दास्त्वां प्रत्यमरवर संशेरत इमे!!
त्रयी सांख्यं योग: पशुपतिमतं वैष्णवमिति
प्रभिन्ने प्रस्थाने परमिदमद: पथ्यमिति च।
रुचीनां वैचित्र्यादृजुकुटिलनानापथजुष
नृणामेको गम्यस्त्वमसि पयसामर्णव इव ॥ ७ ॥
महोश : खट्वाङ्गं परशुरजिनं भस्म फणिनः
कपालं चेतीयत्तव वरद् तन्त्रोपकरणम्।
सुरास्तां तामृद्धिं दधति तु भवद्भूप्रणिहितां
न हि स्वात्मारामं विषयमृगतृष्णा भ्रमयति ॥ ८ ॥
ध्रुवं कश्चित्सर्वं सकलमपरस्त्वध्रुवमिदं
परो ध्रौव्याध्रौव्ये जगति गदति व्यस्तविषये ।
समस्तेऽप्येतस्मिन पुरमथन तैर्विस्मित इव
स्तुवन् जिहेमि त्वां न खलु ननु धृष्टा मुखरता ॥ ९ ॥
तवैश्वर्य यत्नाद् यदुपरि विरञ्चो हरिरध:
परिच्छेत्तुं यातावनलमनलस्कन्धवपुषः।
ततो भक्तिश्रद्धाभरगुरुगृणद्भ्यां गिरिश यत्
स्वयं तस्थे ताभ्यां तव किमनुवृत्तिर्न फलति ॥ १०।।
अयत्नादापाद्य त्रिभुवनमवैरव्यतिकरं
दशास्यो यद्बाहूनभृत रणकण्डूपरवशान्।
शिर: पद्मश्रेणीररचितचरणाम्भोरुहबले:
स्थिरायास्त्वद्भक्तेस्त्रिपुरहर विस्फूर्जितमिदम् ॥ ११ ॥
अमुष्य त्वत्सेवासमधिगतसारं भुजवनं
बलात् कैलासेऽपि त्वदधिवसतौ विक्रमयतः।
अलभ्या पातालेऽप्यलसचलिताङ्गुष्ठशिरसि
प्रतिष्ठा त्वय्यासीदध्रुवमुपचितो मुह्यति खलः ॥१२॥
यदृर्द्धि सुत्राम्णो वरद् परमोच्चैरपि सती
मधश्चक्रे बाण: परिजनविधेयस्त्रिभुवन:।
न तच्चित्रं तस्मिन् वरिवसितरि त्वच्चरणयो –
र्न कस्याप्युन्नत्यै भवति शिरसस्त्वय्यवनतिः ॥ १३ ॥
अकाण्यब्रह्माण्डक्षयचकितदेवासु
विधेयस्याऽऽसीमद्यस्त्रिनयन विषं संहृतवतः।
स कल्माष: कण्ठे तव न कुरुते न श्रियमहो
विकारोऽपि श्लाघ्यो भुवनमयभङ्गंव्यसनिनः ॥१४॥
असिद्धार्था नैव क्वचिदपि स देवा सुरनरे-
निवर्तन्ते नित्यं जगति जयिनो यस्य विशिखाः।
स पश्यन्नीश त्वामितरसुरसाधारणमभूत्
स्मरः स्मर्तव्यात्मा न हि वशिषु पथ्यः परिभवः ॥ १५ ॥
महीपादाघाताद् व्रजति सहसा संशयपदं
पदं विष्णोर्भ्राम्यद् भुजपरिघरुग्णग्रहगणम्।
मुहुर्द्यौर्दोस्थयंयात्यनिभृतजटाताडिततटा
जगद्रक्षायै त्वं नटसि ननु वामैव विभुता ॥ १६॥
वियद्व्यापी तारागणगुणितफेनोद्गमरुचिः
प्रवाहो वारां य: पृषतलधुदृष्टः शिरसि ते।
जगद्द्वीपाकारं जलधिवलयं तेन कृतमि-
त्यनेनैवोन्नेयं धृतमहिम दिव्यं तव वपुः ।।१७।।
रथ: क्षोणी यन्ता शतधृतिरगेन्द्रो धनुरथो
रथाङ्गे चन्द्राकौं रथचरणपाणि: शर इति।
दिधक्षोस्ते कोऽयं त्रिपुरतृणमाडम्बरविधि-
विधेयै: क्रीडन्त्यो न खलु परतन्त्रा: प्रभुधियः ॥१८॥
हरिस्ते साहस्त्रं कमलबलिमाधाय पदयो-
र्यदेकोने तस्मिन् निजमुदहरन्नेत्रकमलम्।
गतो भक्त्युद्रेक परणतिमसौ चक्रवपुषा
त्रयाणां रक्षायै त्रिपुरहर जागर्ति जगताम्॥१९॥ –
क्रतौ सुप्ते जाग्रत्वमसि फलयोगे क्रतुमतां
क्व कर्म प्रध्वस्तं फलति पुरुषाराधनमृते।
अतस्त्वां सम्प्रेक्ष्य क्रतुषु फलदानप्रतिभुवं
श्रुतौ श्रद्धां बद्ध्वा दृढपरिकर: कर्मसु जनः ॥२०॥
क्रियादक्षो दक्ष: क्रतुपतिरधीशस्तनुभृता-
मृषीणामार्त्विज्यं शरणद सदस्या: सुरगणाः ।
क्रतुभ्रंशस्त्वत्तः क्रतुफलविधानव्यसनिनो
ध्रुवं कर्तुः श्रद्धाविधुरमभिचाराय हि मखा:।।२१।।
प्रजानाथं नाथ प्रसभमभिकं स्वां दुहितरं
गतं रोहिद्भूतां रिरमयिषुमृष्यस्य वपुषा।
धनुष्पाणेर्यातं दिवमपि सपत्राकृतममुं
त्रसन्तं तेऽद्यापि त्यजति न मृगव्याधरभसः ॥२२॥
स्वलावण्याशंसा धृतधनुषमह्नाय तृणवत्
पुर: प्लुष्टं दृष्ट्वा पुरमथन पुष्पायुधमपि।
 यदि स्त्रैणं देवी यमनिरत देहार्धघटना
दवैति त्वामद्धा बत वरद मुग्धा युवतयः ॥२३॥
श्मशानेष्वाक्रीडा स्मरहर पिशाचा: सहचरा-
श्चिताभस्मालेप: स्त्रगपि नृकरोटीपरिकरः।
अमगल्यं शीलं तव भवतु नामैवमखिलं
तथापि स्मर्तॄणां वरद परमं मंगलमसि ॥२४॥
मन: प्रत्यक्-चित्ते सविधमवधायात्तमरुतः
प्रहृष्यद्रोमाण: प्रमदसलिलोत्सङ्गितदृशः।
यदालोक्याह्लादं हृद इव निमज्यामृतमये
दधत्यन्तस्त्वं किमपि यमिनस्तत्किल भवान् ॥२५॥
त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवह-
स्त्वमापस्त्वं व्योम त्वमु धरणिरात्मा त्वमिति च।
परिच्छिन्नामेवं त्वयि परिणता बिभ्रतु गिरं
न विद्मस्तत्तत्वं वयमिह तु यत्वं न भवसि ॥२६॥
त्रयीं तिस्त्रो वृत्तीस्त्रिभुवनमथोत्रीनपिसुरा
नकाराद्यैर्वणौस्त्रिभिराभिदधत्त्तीर्णविकृति।
तुरीयं ते धाम ध्वनिभिरवरुन्धानमणुभिः
समस्तं व्यस्तं त्वां शरणद गृणात्योमिति पदम् ॥२७॥
भव: शर्वो रुद: पशुपतिरथोग्रः सहमहांस्तथा
भीमेशानाविति यदभिधानाष्टकमिदम्।
अमुष्मिन् प्रत्येकं प्रविचरति देव श्रुतिरपि
प्रियायास्मै धाम्ने प्रणिहितनमस्योऽस्मि भवते ॥२८॥
नमो नेदिष्ठाय प्रियदव दविष्ठाय च नमो
नमः क्षोदिष्ठाय स्मरहर महिष्ठाय च नमः।
 नमो वर्षिष्ठाय त्रिनयन यविष्ठाय च नमो
नम: सर्वस्मै ते तदिदमिति शर्वाय च नमः ।।२९।।
बहलरजसे विश्वोत्पत्तौ भवाय नमो नमः
प्रबलतमसे तत्संहारे हराय नमो नमः।
जनसुखकृते सत्वोद्रिक्तौ मृडाय नमो नमः।
प्रमहसि पदे निस्त्रैगुण्ये शिवाय नमो नमः ।।३०।।
कृशपरिणतिचेत: क्लेशवश्यं क्वचेदं
क्व च तव गुणसीमोल्लङ्घिनी शश्वदृद्धिः।
इति चकितममन्दीकृत्य मां भक्तिराधाद् –
वरद चरणयोस्ते वाक्यपुष्पोहारम् ॥३१॥
असितगिरिसमं स्यात् कज्जलं सिन्धुपात्रे
सुरतरुवरशाखा लेखनी पत्रमुर्वी।
लिखति यदि गृहीत्वा शारदा सर्वकालं
तदपि तव गुणानामीश पारं न याति ॥३२॥
असुरसुरमुनीन्द्रैरर्चितस्येन्दुमौले-
ग्रथितगुणमहिम्नो निर्गुणस्येश्वरस्य।
सकलगुणवरिष्ठ: पुष्पदन्ताभिधानो
रुचिरमलधुवृत्तै: स्तोत्रमेतच्चकार ॥३३॥
अहरहरनवद्यं धूर्जटे: स्तोत्रमेतत्
पठति परमभक्त्या शुद्धचित्त: पुमान् यः।
सभवति शिवलोके रुद्रतुल्यस्तथात्र
प्रचुरतरधनायुः पुत्रवान् कीर्तिमांश्च ॥३४॥
दीक्षा दानं तपस्तीर्थ ज्ञानं यागादिका: क्रिया:।
महिम्न:स्तवपाठस्य कलां नार्हन्ति षोडशीम् ॥३५॥
आसमाप्तमिदं स्तोत्रं शिवमीश्वरर्णनम्।
अनौपम्यं मनोहारि पुण्यं गन्धर्वभाषितम् ॥३६॥
महेशान्नापरो देवो महिम्नो नापरा स्तुतिः।
अघोरान्नापरो मन्त्रो नास्ति तत्त्वं गुरोः परम् ॥३७॥
कुसुमदशननामा सर्वगन्धर्वराज:
शिशुशशिधरवरमौलेर्देवदेवस्य दासः।
सखलुनिजमहिम्नो भ्रष्ट एवास्य रोषात्
स्तवनमिदमकार्षीट्टि दिव्य दिव्यं महिम्नः ॥३८॥
सुरवरमुनिपूज्यं स्वर्गमोक्षैकहेतुं
पठति यदि मनुष्य: प्राज्ञ्जलिर्नान्यचेताः।
व्रजति शिवसमीपं किन्नरैः स्तूयमान:
स्तवनमिदममोघं पुष्पदन्तप्रणीतम् ॥३९॥
श्री पुष्पदन्तमुखपंकजनिर्गतेन
स्तोत्रेण किल्विषहरेण हरप्रियेण।
कण्ठस्थितेन पठितेन समाहितेन
सुप्रीणितो भवति भूतपतिर्महेशः ॥४०॥
इत्येषा वाड्मयी पूजा श्रीमच्छङ्करपादयोः।
अर्पिता तेन देवश: प्रीयतां मे सदाशिवः ॥४१॥
यदक्षरं पदभ्रष्टं मात्राहीनं च यद्भवेत्।
तत्सर्वं क्षम्यतां देव प्रसीद परमेश्वर ॥४२॥
इति श्रीपुष्पदन्ताचार्य-विरचितं
शिवमहिम्न:- स्तोत्रं परिपूर्णम् ॥

आयुर्वेदिक विशेषज्ञ से बात करें!

अभी हमारे ऐप को डाउनलोड करें और परामर्श बुक करें!

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *